Proofing

This page has not been fully proofread.

एकोनविंशः खण्डः ॥
 
आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकल ब्रह्मदृष्ट्य-
र्थमिदमारभ्यते—
 
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्या-
नमसदेवेदमग्र आसीत् । तत्सदासीत्त-
त्समभवत्तदाण्डं निरवर्तत तत्संवत्सरख
मात्रामशयत तन्निरभिद्यत ते आण्डक-
पाले रजतं च सुवर्ण चाभवताम् ॥ १ ॥
 
आदित्यो ब्रह्मेत्यादेशः उपदेशः; तस्योपव्याख्यानं क्रियते
स्तुत्यर्थम् । असत् अव्याकृतनामरूपम् इदं जगत् अशेषमग्रे
प्रागवस्थायामुत्पत्तेः आसीत्, न त्वसदेव ; ' कथमसत: सज्जा-
येत' इति असत्कार्यत्वस्य प्रतिषेधात् । ननु इहासदेवेति
विधानाद्विकल्पः स्यात् । न, क्रियास्विव वस्तुनि विकल्पानु-
पपत्तेः । कथं तर्हि इदमसदेवेति ? नन्ववोचाम अव्याकृतनाम-
रूपत्वादसदिवासदिति । नन्वेवशब्दोऽवधारणार्थः; सत्यमे-
वम, न तु सत्त्वाभावमवधारयति ; किं तर्हि, व्याकृतनाम-