2026-05-06 05:53:27 by ambuda-bot
This page has not been fully proofread.
१९४
छान्दोग्योपनिषद्भाष्ये
तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य
एवं वेद ॥ ३ ॥
.
[ख.
तत्र वागेव मनसो ब्रह्मणश्वतुर्थः पादः । सोऽग्निना अ-
धिदैवतेन ज्योतिषा भाति च दीप्यते तपति च संतापं च
औंष्ण्यं करोति । अथवा तैलघृताद्याग्नेयाशनेन इद्धा वाग्भाति
च तपति च वदनायोत्साहवती स्यादित्यर्थः । विद्वत्फलम्,
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं
यथोक्तं वेद ॥
प्राण एव ब्रह्मणश्वतुर्थः पादः स वायु-
ना ज्योतिषा भाति च तपति च भाति
च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन
य एवं वेद ॥ ४ ।
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदि-
त्येन ज्योतिषा भाति च तपति च भा-
ति च तपति च कीर्त्या यशसा ब्रह्मवर्च-
सेन य एवं वेद ॥ ५ ॥
श्रोत्रमेव ब्रह्मणञ्चतुर्थः पादः स दि-