2026-05-06 05:53:27 by ambuda-bot
This page has not been fully proofread.
१८.]
तृतीयोऽध्यायः ।
पादो दिशः पाद इत्युभयमेवादिष्टं भव-
त्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥
१९३
तदेतत् मनआख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति ।
कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह— वाक्प्राणश्चक्षुः-
श्रोत्रमित्येते पादाः इत्यध्यात्मम् । अथाधिदैवतम् आकाशस्य
ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते । एवमुभयमेव चतुष्पा-
द्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च । तत्र वागेव
मनसो ब्रह्मणश्चतुर्थः पाद इतरपादवयापेक्षया - वाचा हि
पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति ; अतो मनसः
पाद इव वाक् । तथा प्राणो घ्राणः पादः ; तेनापि गन्ध-
विषयं प्रति च क्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्ये-
वमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः । अथाधिदैवतम् अभि-
वाय्वादित्यदिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव
लग्ना उपलभ्यन्ते ; तेन तस्य आकाशस्य अग्न्यादयः पादा
उच्यन्ते । एवमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं
भवति ॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना
ज्योतिषा भाति च तपति च भाति च