Proofing

This page has not been fully proofread.

अष्टादशः खण्डः ॥
 
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधि-
दैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्य-
ध्यात्मं चाधिदैवतं च ॥ १ ॥
 
मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैक-
देशत्वेन । अथेदानीं मनआकाशयोः समस्तत्रह्मदृष्टिविधा-
नार्थ आरम्भः मनो ब्रह्मेत्यादि । मनः मनुतेऽनेनेत्यन्त:-
करणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनम्
अध्यात्मम् । अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः ।
आकाशो ब्रह्मेत्युपासीत ; एवमुभयमध्यात्ममधिदैवतं च उभयं
ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति; आकाशमनसोः
सूक्ष्मत्वात् मनसोपलभ्यत्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्म-
दृष्टेः, आकाशश्च, सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच ॥
 
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पाद-
चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथा-
धिदैवतमग्निः पादो वायुः पाद आदित्यः