2026-05-06 05:53:27 by ambuda-bot
This page has not been fully proofread.
१७.]
तृतीयोऽध्यायः ।
१९.१
मन्त्र-
पश्यन्ति । आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन संबध्यते ;
किं तज्ज्योतिः पश्यन्ति; वासरम् अहः अहरिव तत् सर्वतो
व्याप्तं ब्रह्मणो ज्योति:; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्या-
दिनिवृत्तिसाधनैः शुद्धान्त:करणाः आ समन्ततः ज्योति:
पश्यन्तीत्यर्थः । परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्पर-
त्वात्, यत् इध्यते दीप्यते दिवि द्योतनवति परस्मिन्त्रह्मणि
वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमाभाति
विद्युद्विद्योतते ग्रहतारागणा विभासन्ते । किं च, अन्यो
हगाह यथोक्तं ज्योतिः पश्यन् — उद्वयं तमसः अज्ञानलक्षणा-
तु परि परस्तादिति शेषः ; तमसो वा अपनेतृ यज्ज्योति:
उत्तरम् - आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति
व्यवहितेन संबन्ध: ; तज्ज्योतिः स्वः स्वम् आत्मीयमस्मद्वृदि
स्थितम, आदित्यस्थं च तदेकं ज्योतिः ; यत् उत्तरम् उत्कृष्टत-
रमूर्ध्वतरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उद्गन्म वयम् ।
कमुद्गन्मेति, आह । देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु,
सूर्य रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुद्ग-
न्म गतवन्तः, ज्योतिरुत्तमं सर्वज्योति उत्कृष्टतमम् अहो
प्राप्ता वयमित्यर्थः । इदं तज्ज्योतिः, यत् ऋग्भ्यां स्तुतं यद्यजु-
स्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः ॥
इति सप्तदशखण्डभाष्यम् ॥