2026-05-06 05:53:26 by ambuda-bot
This page has not been fully proofread.
१९०
छान्दोग्योपनिषद्भाष्ये
[ख.
पास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टा इयम्,
यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्डिच्छेदकरी
इति पुरुषयज्ञविद्यां स्तौति । घोर आङ्गिरसः कृष्णायोक्त्वेमां
विद्यां किमुवाचेति, तदाह – स एवं यथोक्तयज्ञवित् अन्त-
वेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं
तत् ? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः । सा-
मर्थ्यादादित्यस्थं प्राणं च एकीकृत्य आह । तथा तमेव आह,
अच्युतं स्वरूपादप्रच्युतमसि इति द्वितीयं यजुः । प्राणसं-
शितं प्राणश्च स संशितं सम्यक्तनूकृतं च सूक्ष्मं तत् त्वमसि
इति तृतीयं यजुः । तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ
मन्त्रौ भवतः, न जपार्थे, त्र्यं प्रतिपद्येत इति त्रित्वसंख्यावा-
धनात् ; पञ्चसंख्या हि तदा स्यात् ॥
आदित्प्रत्नस्य रेतसः । उयं तमस-
स्परि ज्योतिः पश्यन्त उत्तर खः पश्य-
न्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योति-
रुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥
आदित् इत्यत्र आकारस्यानुवन्धस्तकारः अनर्थक इच्छ-
व्दश्च । प्रन्नस्य चिरंतनस्य पुराणस्येत्यर्थः ; रेतस:
कारणस्य बीजभूतस्य जगत:, सदाख्यस्य ज्योति: प्रकाशं