2026-05-06 05:53:25 by ambuda-bot
This page has not been fully proofread.
सप्तदशः खण्डः ॥
स यदशिशिषति यत्पिपासति यन्न
रमते ता अस्य दीक्षाः ॥ १ ॥
स यदशिशिपतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वे -
जैव संबध्यते । यदशिशिषति अशितुमिच्छति ; तथा
पिपासति पातुमिच्छति ; यन्न रमते इष्टाद्यप्राप्तिनिमित्तम् ;
यदेवंजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः ; दुःख-
सामान्याद्विधियज्ञस्येव ॥
अथ यदश्नाति यत्पिबति यद्रमते तदु-
पसदैरेति ॥ २ ॥
अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति
इष्टादिसंयोगात्, तत् उपसदैः समानतामेति । उपसदां च प-
योव्रतत्वनिमित्तं सुखमस्ति । अल्पभोजनीयानि च अहान्यास-
नानि इति प्रश्वास: ; अतोऽशनादीनामुपसदां च सामान्यम् ॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चर-
ति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥
अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुत-
शस्त्रैरेव तत्समानतामेति ; शब्दवत्त्वसामान्यात् ॥
अथ यत्तपो दानमार्जवमहिसा सत्य-
वचनमिति ता अस्य दक्षिणाः ॥ ४ ॥