Proofing

This page has not been fully proofread.

१६.]
 
तृतीयोऽध्यायः ।
 
निश्चिता हि विद्या फलायेत्येतद्दर्शयन उदाहरति-
 
१८७
 
एतद्ध स्म वै तद्वानाह महिदास
ऐतरेयः स किं म एतदुपतपसि योऽहम-
नेन न प्रेष्यामीति स ह षोडशं वर्षशत-
मजीवत्प्र ह षोडशं वर्षशतं जीवति य
एवं वेद ॥ ७ ॥
 
इति षोडशः खण्डः ॥
 
एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो ना-
मतः ; इतराया अपत्यम् ऐतरेयः । किं कस्मात् मे मम एतत्
उपतपनम् उपतपसि सत्वं हे रोग; योऽहं यज्ञः अनेन त्व-
स्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि ; अतो वृथा तव
श्रम इत्यर्थः । इत्येवमाह स्म -इति पूर्वेण संबन्ध: । स एवंनि-
श्चयः सन् षोडशं वर्षशतमजीवत् । अन्योऽप्येवंनिश्चयः
षोडशं वर्षशतं प्रजीवति य एवं यथोक्तं यज्ञसंपादनं वेद
जानाति, स इत्यर्थः ॥
 
,
 
इति षोडशखण्डभाष्यम् ॥