2026-05-06 05:53:24 by ambuda-bot
This page has not been fully proofread.
१८६
छान्दोग्योपनिषद्भाष्ये
तृतीयसवनमनुसंतनुतेति माहं प्राणाना
रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्वैव तत
एत्यगदो ह भवति ॥ ४ ॥
अथ यान्यष्टाचत्वारिशद्वर्षाणि त-
तृतीयसवनमष्टाचत्वारिशदक्षरा जग-
ती जागतं तृतीयसवनं तदस्यादित्या अ-
न्वायत्ताः प्राणा वावादित्या एते हीद
सर्वमाददते ॥ ५ ॥
[ख.
तं चेदस्मिन्वयसि किंचिदुपतपेत्स
ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवन-
मायुरनुसंतनुतेति माहं प्राणानामादि-
त्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत.
एत्यगदो हैव भवति ॥ ६ ॥
तथा आदित्याः प्राणाः । ते हि इदं शब्दादिजातम्
आददते, अत आदित्याः । तृतीयसवनमायुः षोडशोत्तरवर्षशतं
समापयत अनुसंतनुत यज्ञं समापयतेत्यर्थः । समानम-
न्यत् ॥