Proofing

This page has not been fully proofread.

१६. ]
 
तृतीयोऽध्यायः ।
 
१८५
 
ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् - हे प्राणाः वसवः इदं मे
प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यंदिनं सवनम् अनुसंत-
नुतेति माध्यंदिनेन सवनेन आयुषा सहितं एकीभूतं संततं
कुरुतेत्यर्थः । मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसव-
नेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इति-
शब्दो मन्त्रपरिसमात्यर्थ: । स तेन जपेन ध्यानेन च ततः
तस्मादुपतापात् उत् एति उद्गच्छति । उद्गम्य विमुक्तः सन्
अगदोह अनुपतापो भवत्येव ॥
 
अथ यानि चतुश्चत्वारिशद्वर्षाणि
तन्माध्यंदिन‍ सवनं चतुश्चत्वारिशद-
क्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदिन सवनं त-
दस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा
एते ही सर्व रोदयन्ति ॥ ३ ॥
 
अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम् । रुदन्ति
रोदयन्तीति प्राणा रुद्राः । क्रूरा हि ते मध्यमे वयसि, अतो
 
रुद्राः ॥
 
1
 
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स
ब्रूयात्प्राणा रुद्रा इदं मे माध्यंदिन सवनं