Proofing

This page has not been fully proofread.

१८४
 
छान्दोग्योपनिषद्भाष्ये
 
[ख-
 
सवनम्; अतः प्रातःसवनसंपन्नेन चतुर्विंशतिवर्षायुषा युक्तः
पुरुष: अतो विधियज्ञसादृश्यात् यज्ञः । तथोत्तरयोरप्याः
युषोः सवनद्वयसंपत्तिः त्रिष्टुब्जगत्यक्षरसंख्या सामान्यतो वा-
च्या । किंच, तदस्य पुरुषयज्ञस्य प्रातः सवनं विधियज्ञस्येव
वसवः देवा अन्वायत्ता: अनुगताः; सवनदेवतात्वेन स्वा-
मिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वस-
व: देवाः प्राप्ता इत्यतो विशिनष्टि - प्राणा वाव वसवः वा-
गादयो वायवश्च । एते हि यस्मात् इदं पुरुषादिप्राणिजातम्
एते वासयन्ति । प्राणेषु हि देहे वसत्सु सर्वमिदं वसति,
नान्यथा । इत्यतो वसनाद्वासनाच वसत्रः ॥
 
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स
ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं मा-
ध्यंदिन सवनमनु संतनुतेति माहं प्राणा-
नां वसूनां मध्ये यज्ञो विलोप्सयेित्युद्धैव
तत एत्यगदो ह भवति ॥ २ ॥
 
तं चेत् यज्ञसंपादिनम् एतस्मिन् प्रातः सवनसंपन्ने वयसि
किंचित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पा-
दयेत्, स तदा यज्ञसंपादी पुरुषः आत्मानं यज्ञं मन्यमानः