2026-05-06 05:53:23 by ambuda-bot
This page has not been fully proofread.
षोडशः खण्डः ॥
पुत्रायुष उपासनमुक्तं जपश्च । अथेदानीमात्मनः दीर्घ-
जीवनायेदमुपासनं जपं च विदधदाह; जीवन्हि स्वयं पुत्रा-
दिफलेन युज्यते, नान्यथा । इत्यतः आत्मानं यज्ञं संपादयति
पुरुषः-
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विश-
ति वर्षाणि तत्प्रातःसवनं चतुर्विशत्यक्ष-
रा गायत्री गायत्रं प्रातः सवनं तदख व-
सवोऽन्वायत्ताः प्राणा वाव वसव एते
हीद सर्व वासयन्ति ॥ १ ॥
पुरुष: जीवनविशिष्टः कार्यकरणसंघातः यथाप्रसिद्ध
एव; वावशब्दोऽवधारणार्थ : ; पुरुष एव यज्ञ इत्यर्थः ।
तथां हि सामान्यैः संपादयति यज्ञत्वम् । कथम् ? तस्य
पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषः, तत्प्रातः सवनं पुरुषा-
ख्यस्य यज्ञस्य । केन सामान्येनेति, आह— चतुर्विंशत्यक्षरा
गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रात:-