2026-05-06 05:53:23 by ambuda-bot
This page has not been fully proofread.
१८२
छान्दोग्योपनिषद्वाप्य
अथ यदवोचं भूः प्रपद्य इति पृथिवीं
प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव
तदवोचम् ॥ ५ ॥
[ख-
तथा भूः प्रपद्ये इति त्रीलोकान्भूरादीन्प्रपद्ये इति तदवो -
चम् ॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये
वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवो-
चम् ॥ ६ ॥
अथ यदवोचं भुवः प्रपद्ये इति, अग्न्यादीन्प्रपद्ये इति
तदवोचम् ॥
अथ यदवोचः स्वः प्रपद्य इत्यृग्वेदं
प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव
तदवोचं तदवोचम् ॥ ७ ॥
इति पञ्चदशः खण्डः ॥
'
अथ यदवोचं स्वः प्रपद्ये इति ऋग्वेदादीन्प्रपद्ये इत्येव
तदवोचमिति । उपरिष्टान्मन्त्रान् जपेत् ततः पूर्वोक्तमजरं
कोशं सदिग्वत्सं यथावद्ध्यात्वा । द्विर्वचनमादरार्थम् ॥
इति पञ्चदशखण्डभाष्यम् ॥