Proofing

This page has not been fully proofread.

१५.]
 
तृतीयोऽध्यायः ।
 
१८१
 
जाने । अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो
 
मम मा भूदित्यर्थः ॥
 
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्रा-
णं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुना-
मुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः
प्रपद्येऽमुनामुनामुना ॥ ३ ॥
 
अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि
पुत्रायुषे । अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य । तथा
प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः
प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये
इति त्रिर्नाम गृह्णाति पुनः पुनः ॥
 
स यदवोचं प्राणं प्रपद्य इति प्राणो वा
इद ँ सर्व भूतं यदिदं किंच तमेव तत्प्रा-
पत्सि ॥ ४ ॥
 
स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः ।
प्राणो वा इद सर्व भूतं यदिदं जगत् । ' यथा वारा नाभौ '
इति वक्ष्यति । अतस्तमेव सर्वं तत् तेन प्राणप्रतिपादनेन
प्रापत्सि प्रपन्नोऽभूवम् ।