2026-05-06 05:53:22 by ambuda-bot
This page has not been fully proofread.
१८०
छान्दोग्योपनिषद्भाष्ये
तस्य प्राची दिग्जुहूर्नाम सहमाना ना-
म दक्षिणा राज्ञी नाम प्रतीची सुभूता
नामोदीची तासां वायुर्वत्सः स य एत-
मेवं वायुं दिशां वत्सं वेद न पुत्ररोद
रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं
वेद मा पुत्ररोद ँ रुदम् ॥ २ ॥
"
[ख-
तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यखां
दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम । सहमाना
नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति
सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची
पश्चिमा दिक् राज्ञी राज्ञा वरुणेनाधिष्ठिता, संध्यारागयो-
गाद्वा । सुभूता नाम भूतिमद्भिरीश्वरकुवेरादिभिरधिष्ठितत्वात्
सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्जत्वा-
द्वायो:, पुरोवात इत्यादिदर्शनात् । स यः कश्चित् पुत्रदीर्घजी-
वितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स
न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत
इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम्,
अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद