2026-05-06 05:53:22 by ambuda-bot
This page has not been fully proofread.
पञ्चदशः खण्डः ॥
'अस्य कुले वीरो जायते' इत्युक्तम् । न वीरजन्ममात्रं
पितुस्त्राणाय, ' तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः' इति श्रुत्य-
न्तरात् । अतस्तद्दीर्घायुष्यं कथं स्यादित्येवमर्थ कोशविज्ञाना-
रम्भः । अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदा-
नीमेव आरभ्यते—
अन्तरिक्षोदरः कोशो भूमिवुनो न
जीर्यति दिशो यस्य स्रक्तयो चौरस्योत्त
रं बिल स एष कोशो वसुधानस्तस्मि-
न्विश्वमिद श्रितम् ॥ १ ॥
'
अन्तरिक्षम् उदरम् अन्तः सुषिरं यस्य सोऽयम् अन्तरिक्ष-
दरः, कोशः कोश इव अनेकधर्मसादृश्यात्कोशः ; स च भूमि-
बुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति नवि-
नश्यति त्रैलोक्यात्मकत्वात् । सहस्रयुगकालावस्थायी हि
स: । दिशो हि अस्य सर्वाः स्रक्तयः कोणाः । द्यौरस्य कोशस्य
उत्तरम ऊर्ध्वं विलम् ; स एष यथोक्तगुणः कोश: वसुधानः
वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यम्, अतो वसुधानः ।
तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं
यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितमित्यर्थः ॥