Proofing

This page has not been fully proofread.

१७८
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
णस्याप्यानयने व्याप्रियते, तद्वदिहापि प्राप्तम्; अतस्तन्नि-
वृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मात् मनोमयत्वादिगु-
विशिष्ट एवेश्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव 'त-
त्वमसि' 'आत्मैवेदं सर्वम्' इति नेह स्वाराज्येऽभिषि-
वति, एष म आत्मा एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मि
इति लिङ्गात् ; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति
षष्ठयाः संबन्धार्थप्रत्यायकत्वात्, एतमभिसंभवितास्मीति च
कर्मकर्तृत्वनिर्देशात् । ननु षष्ठेऽपि 'अथ संपत्स्ये' इति
सत्संपत्तेः कालान्तरितत्वं दर्शयति । न, आरब्धसंस्कारशे-
षस्थित्यर्थपरत्वात् ; न कालान्तरितार्थता, अन्यथा तत्त्व-
मसीत्येतस्यार्थस्य बाधप्रसङ्गात् । यद्यपि आत्मशब्दस्य प्र-
त्यर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् एष म आत्मा-
न्तर्हृदय एतद्ब्रह्मेत्युच्यते, तथापि अन्तर्धानमीषदपरित्यज्यैव
एतमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभिसंभवितास्मी-
त्युक्तम् । यथाक्रतुरूपस्य आत्मनः प्रतिपत्तास्मीति यस्यैवंविदः
स्यात् भवेत् अद्धा सत्यम् एवं स्यामहं प्रेत्य, एवं न स्यामिति
न च विचिकित्सा अस्ति इत्येतस्मिन्नर्थे क्रतुफलसंबन्धे, स
तथैवेश्वरभावं प्रतिपद्यते विद्वान् इत्येतदाह स्म उक्तवान्किल
शाण्डिल्यो नाम ऋषिः । द्विरभ्यासः आदरार्थः ॥
 
"
 
इति चतुर्दशखण्डभाष्यम् ॥