Proofing

This page has not been fully proofread.

१४.]
 
तृतीयोऽध्यायः ।
 
१७७
 
न्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दि-
 
वो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
 
एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्ड-
रोकस्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि
अत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् । श्यामाकाद्वा श्यामाकतण्डुलाद्वा
इति परिच्छिन्नपरिमाणात् अणीयानित्युक्तेऽणुपरिमाणत्वं
अतः तत्प्रतिषेधायारभते-
 
प्राप्तमाशङ्कय,
 
-
 
- एष म आत्मा-
 
न्तर्हृदये ज्यायान्पृथिव्या इत्यादिना । ज्यायः परिमाणाच
ज्यायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति - मनोमय
इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥
 
सर्वकर्मा सर्वकामः सर्वगन्धः सर्व-
रसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष
म आत्मान्तर्हृदय एतद्ब्रह्मेतमितः प्रेत्या-
भिसंभवितास्मीति यस्य स्यादद्धा न
विचिकित्सास्तीति ह स्माह शाण्डिल्यः
शाण्डिल्यः ॥ ४ ॥
 
यथोक्तगुणलक्षणः ईश्वरः ध्येयः, न तु तद्गुणविशिष्ट
 
एव—यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विशेष-