2026-05-06 05:53:21 by ambuda-bot
This page has not been fully proofread.
१७६
छान्दोग्योपनिषद्भाष्ये
[ख-
यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति स्मृत्यर्थो
वाच्यः । सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं
सर्वगन्ध:, 'पुण्यो गन्धः पृथिव्याम्' इति स्मृतेः । तथा रसा
अपि विज्ञेया: ; अपुण्यगन्धरसग्रहणस्य पाप्मसंबन्धनिमित्त-
त्वश्रवणात्, 'तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
पाप्मना ह्येष विद्ध:' इति श्रुतेः । न च पाप्मसंसर्ग ईश्व-
रस्य, अविद्यादिदोषस्यानुपपत्तेः । सर्वमिदं जगत् अभ्यात्तः
अभिव्याप्तः । अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा । तथा अवा-
की— उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्त-
स्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अ-
वाकी । वाक्प्रतिषेधश्च अत्र उपलक्षणार्थ: । गन्धरसादि-
श्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादि -
ग्रहणाय ; अत: वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ; अपा-
णिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: '
इत्यादिमत्रवर्णात् । अनादरः असंभ्रमः; अप्राप्तप्राप्तौ हि
संभ्रमः स्यादनाप्तकामस्य । न तु आप्तकामत्वात् नित्यतृप्तस्ये-
श्वरस्य संभ्रमोऽस्ति कचित् ॥
एष म आत्मान्तर्हृदयेऽणीयान्त्रीहेर्वा
यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक-
तण्डुलाद्वैष म आत्मान्तर्हृदये ज्याया -