Proofing

This page has not been fully proofread.

१४.]
 
तृतीयोऽध्यायः ।
 
१७५
 
स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः; तथा
प्रवृत्त इव तत्प्रायो निवृत्त इव च । अत एव प्राणशरीर:
प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वय संमूर्च्छितः, 'यो वै
प्राण: सा प्रज्ञा या वा प्रज्ञा स प्राण:' इति श्रुते: ।
सः शरीरं यस्य स प्राणशरीरः, 'मनोमयः प्राणशरीर-
नेता' इति च श्रुत्यन्तरात् । भारूप: भा दीप्तिः चैतन्य-
लक्षणं रूपं यस्य सः भारूपः । सत्यसंकल्पः सत्या
अवितथा: संकल्पाः यस्य, सोऽयं सत्यसंकल्पः ; न यथा
संसारिण इवानैकान्तिकफल: संकल्प ईश्वरस्येत्यर्थः । सं-
सारिणः अनृतेन मिथ्या फलत्वहेतुना प्रत्यूढत्वात् संकल्पस्य
मिथ्याफलत्वं वक्ष्यति—' अनृतेन हि प्रत्यूढा: ' इति । आका-
शात्मा आकाश इव आत्मा स्वरूपं यस्य सः आकाशात्मा ।
सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्व-
रस्य । सर्वकर्मा सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं
कर्म यस्य स सर्वकर्मा, ' स हि सर्वस्य कर्ता' इति श्रुतेः ।
सर्वकामः सर्वे कामा दोषरहिता अस्येति सर्वकाम:, 'धर्मा-
विरुद्धो भूतेषु कामोऽस्मि' इति स्मृतेः । ननु कामोऽस्मीति
वचनात् इह बहुव्रीहिर्न संभवति सर्वकाम इति । न, काम-
स्य कर्तव्यत्वात् शब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य । तस्मात्