2026-05-06 05:53:20 by ambuda-bot
This page has not been fully proofread.
१७४
छान्दोग्योपनिषद्भाष्ये
[ख.
एवमेव नान्यथेत्यविचलः प्रत्यय:, तं क्रतुं कुर्वीत उपासीत
इत्यनेन व्यवहितेन संवन्धः । किं पुनः क्रतुकरणेन कर्तव्यं
प्रयोजनम् ? कथं वा ऋतुः कर्तव्यः ? क्रतुकरणं च अभि-
प्रेतार्थसिद्धिसाधनं कथम् ? इत्यस्यार्थस्य प्रतिपादनार्थम् अथे-
त्यादिग्रन्थः । अथ खत्विति हेत्वर्थः । यस्मात्क्रतुमयः
ऋतुप्रायोऽध्यवसायात्मकः पुरुषः जीवः ; यथाक्रतुः यादृशः
ऋतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृनिश्च-
यः अस्मिल्लोके जीवन् इह पुरुषो भवति, तथा इतः अस्मा-
देहात् प्रेत्य मृत्वा भवति ; ऋत्वनुरूपफलात्मको भवती-
त्यर्थः । एवं हि एतच्छास्त्रतो दृष्टम् —' यं यं वापि स्मर-
न्भावं त्यजत्यन्ते कलेवरम्' इत्यादि । यत एवं व्यवस्था
शास्त्रदृष्टा, अतः सः एवं जानन् ऋतुं कुर्वीत ; यादृशं ऋतुं
वक्ष्यामः तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं
फलम्, अतः स कर्तव्यः क्रतुः ॥
-
मनोमयः प्राणशरीरो भारूपः सत्य-
संकल्प आकाशात्मा सर्वकर्मा सर्वकामः
सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवा-
क्यनादरः ॥ २॥
कथम् ? मनोमयः मनः प्रायः ; मनुतेऽनेनेति मनः तत्