2026-05-06 05:53:20 by ambuda-bot
This page has not been fully proofread.
चतुर्दशः खण्डः ॥
पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तश-
तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधि-
त्सन् आह—
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त
उपासीत । अथ खलु क्रतुमयः पुरुषो
यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः
प्रेत्य भवति स ऋतुं कुर्वीत ॥ १ ॥
सर्व समस्तम्, खल्विति वाक्यालंकारार्थो निपातः । इदं
जगत् नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणम् ; वृद्धतम-
त्वात् ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह- तज्जलानि-
ति; तस्माद्ब्रह्मणो जातं तेजोवन्नादिक्रमेण सर्वम्; अतः तज्जम् ;
तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि
लीयते तदात्मतया श्लिष्यत इति तलम् ; तथा तस्मिन्नेव
स्थितिकाले, अनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया
त्रिषु कालेष्वविशिष्टम्, तद्व्यतिरेकेणाग्रहणात् । अतः तदेवेदं
जगत् । यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण व-
क्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदो-
षरहितः संयत: सन्, यत् तत्सर्वं ब्रह्म तत् वक्ष्यमाणैर्गुणैरुपा-
सीत । कथमुपासीत ? ऋतुं कुर्वीत ऋतुः निश्चयोऽध्यवसायः
1
S. U. III. 22
-