2026-05-06 05:53:20 by ambuda-bot
This page has not been fully proofread.
१७२
छान्दोग्योपनिषद्धाप्ये
[ख.
त्वोपगमात् । अतः असाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः । अ-
तस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः ।
तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायो ऽप्युच्य-
मान: । यत्र यदा पुरुष: ज्योतिषो लिङ्गं शुश्रूपति श्रोतुमि
च्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रियाविशेषणम्,
अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुल निनदमिव
रथस्येव घोषो निनदः तमिव शृणोति, नदधुरिव ऋषभकूजित-
मित्र शब्दः, यथा च अमेर्वहिर्व्वलतः एवं शब्दमन्तः शरीरे
उपशृणोति, तदेतत् ज्योति: दृष्टश्रुतलिङ्गत्वात् दृष्टुं च श्रुतं च
इत्युपासीत । तथोपासनात् चक्षुष्यः दर्शनीयः श्रुतः विथु-
तश्च । यत् स्पर्शगुणोपासननिमित्तं फलं तत् रूपे संपादयति
चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात् इष्टत्वाच्च दर्शनी-
यतायाः । एवं च विद्यायाः फलमुपपन्नं स्यात्, न तु मृदुत्वा-
दिस्पर्शवत्त्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्गलोकप्रतिप-
त्तिस्तु उक्तमदृष्टं फलम् । द्विरभ्यासः आदरार्थः ॥
"
इति त्रयोदशखण्डभाष्यम् ॥
พ