Proofing

This page has not been fully proofread.

१३.]
 
तृतीयोऽध्यायः ।
 
१७१
 
स्पर्शरूपेण गृह्यते तचक्षुषैव, दृढप्रतीतिकरत्वात्त्वचः, अवि-
नाभूतत्वाच्च रूपस्पर्शयोः T: 11
 
तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे सँ-
 
स्पर्शेनोष्णमानं विजानाति तस्यैषा श्रु-
 
तिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदधु-
रिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं
 
च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति
य एवं वेद य एवं वेद ॥ ८ ॥
 
इति त्रयोदशः खण्डः ॥
 
कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत
इति, आह— यत्र यस्मिन्काले, एतदिति क्रियाविशेषणम्,
अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसह-
भाविनमुष्णस्पर्शभावं विजानाति, स हि उष्णिमा नामरू-
पव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिष: लिङ्गम्,
अव्यभिचारात् । न हि जीवन्तमात्मानमुष्णिमा व्यभिचर-
ति । उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञा-
यते । मरणकाले च तेजः परस्यां देवतायामिति परेणाविभाग-