Proofing

This page has not been fully proofread.

१७०
 
छान्दोग्योपनिषद्भाष्ये
 
विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु
लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे
ज्योतिः ॥ ७ ॥
 
"
 
अथ यत् असौ विद्वान् स्वर्ग लोकं वीरपुरुषसेवनात्प्रति-
पद्यते, यश्च्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन चक्षुः-
श्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथा अग्न्यादि धूमादि-
लिङ्गेन । तथा हि एवमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः
स्यात् - अनन्यत्वेन च निश्चय इति । अत आह— यदतः
अमुष्मात् दिवः द्युलोकात् परः परमिति लिङ्गव्यत्ययेन,
ज्योतिर्दीप्यते, स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यत इव दीप्यत
इत्युच्यते, अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसंभवात् ।
विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति, संसा-
रादुपरीत्यर्थः ; संसार एव हि सर्व:, असंसारिणः एकत्वा-
न्निर्भेदत्वाच्च । अनुत्तमेषु, तत्पुरुषसमासाशङ्कानिवृत्तये आह
उत्तमेषु लोकेष्वति ; सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य
परस्येश्वरस्य आसन्नत्वादुच्यते उत्तमेषु लोकेष्वति । इदं
वाव इदमेव तत् यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योति: चक्षुः-
श्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन च अवगम्यते । यत् त्वचा