Proofing

This page has not been fully proofread.

१३.]
 
तृतीयोऽध्यायः ।
 
स्य कुले वीरो जायते प्रतिपद्यते स्वर्ग
लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेद ॥ ६ ॥
 
१६९
 
ते वा एते यथोक्ताः पञ्चसुषिसंबन्धात् पश्च ब्रह्मणो
हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्था: स्वर्गस्य हार्दस्य
लोकस्य द्वारपा: द्वारपालाः । एतैर्हि चक्षुः श्रोत्रवाङ्मनः-
प्राणैर्वहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि ।
प्रत्यक्षं हि एतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढ-
त्वात् न हार्दे ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च
ब्रह्मपुरुषा: स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एता-
नेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद
उपास्ते उपासनया वशीकरोति, स राजद्वारपालानिवोपास-
नेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गे लोकं राजान-
मिव हार्द ब्रह्म किं च अस्य विदुष: कुले वीरः पुत्रो
जायते वीरपुरुषसेवनात् । तस्य च ऋणापाकरणेन ब्रह्मो-
पासनप्रवृत्तिहेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण
भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम् ॥
 
'
 
अथ यदतः परो दियो ज्योतिदप्यते