Proofing

This page has not been fully proofread.

१६८
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
विशेषः सोऽशितपीते समं नयतीति समानः । तत्संबद्धं
मनोऽन्तःकरणम्, स पर्जन्यो वृष्टयात्मको देवः पर्जन्यनि-
मित्ताश्च आप इति, 'मनसा सृष्टा आपश्च वरुणश्च' इति
श्रुतेः । तदेतत्कीर्तिश्च मनसो ज्ञानस्य कीर्तिहेतुत्वात् ।
आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः । स्वकरणसंवेद्यं विश्रुत-
त्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्तिसंभवा-
कीर्तिश्चेति । समानमन्यत् ॥
 
अथ योऽस्योर्ध्वः सुषिः स उदानः स
वायुः स आकाशस्तदेतदोजश्च महश्चेत्यु-
पासीतौजस्वी महस्वान्भवति य एवं
वेद ॥ ५ ॥
 
अथ योऽस्योर्ध्वः सुधिः स उदान: आ पादतलादार-
भ्योर्ध्वमुत्क्रमणात् उत्कर्षार्थ च कर्म कुर्वन् अनितीत्युदानः ।
स वायुः तदाधारश्च आकाशः । तदेतत् वाय्वाकाशयोरोजो-
हेतुत्वादोज: बलं महत्वाच्च मह इति । समानमन्यत् ॥
 
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य
लोकस्य द्वारपाः स य एतानेवं पञ्च
ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदा-