Proofing

This page has not been fully proofread.

१३.]
 
तृतीयोऽध्यायः ।
 
१६७
 
तुत्वम्; अतस्ताभ्यां श्रीत्वम् । ज्ञानान्नवतश्च यशः ख्या-
तिर्भवतीति यशोहेतुत्वात् यशस्त्वम् । अतस्ताभ्यां गुणाभ्या-
मुपासीतेत्यादि समानम् ॥ २ ॥
 
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्य-
मित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य
एवं वेद ॥ ३ ।
 
अथ योऽस्य प्रत्यङ्सुषि: पश्चिमः तत्स्थो वायुविशेषः
स मूत्रपुरीषाद्यपनयन् अधोऽनितीत्यपानः । सा तथा वाक्,
तत्संबन्धात्; तथा अग्निः; तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनि-
मित्तं तेजः ब्रह्मवर्चसम्, अग्निसंबन्धाद्वृत्तस्वाध्यायस्य ।
अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वम् । समानमन्यत् ॥
 
अथ योऽस्योदङ्सुषिः स समानस्त-
न्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टि-
श्वेत्युपासीत कीर्तिमान्त्र्युष्टिमान्भवति
य एवं वेद ॥ ४ ॥
 
अथ योऽस्योदङ् सुषि: उदग्गतः सुषिः तत्स्थो वायु-