2026-05-06 05:53:17 by ambuda-bot
This page has not been fully proofread.
१६६
छान्दोग्योपनिषद्भाष्ये
[ख.
प्रतिष्ठित इति चक्षुषि' इत्यादि हि वाजसनेयके । प्राण-
वायुदेवतैव हि एका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यति च-
प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति । तदेतत्
प्राणाख्यं स्वर्गलोकद्वारपालत्वात् ब्रह्म । स्वर्गलोकं प्रतिपि-
त्सुः तेजस्वी एतत् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः
तेज: अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत । ततः तेज-
स्व्यन्नादश्च आमयावित्वरहितो भवति ; य एवं वेद तस्यै-
तद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतु-
भवतीति मुख्यं च फलम् ॥
अथ योऽस्य दक्षिणः सुषिः स व्यान-
स्तच्छ्रोत्र स चन्द्रमास्तदेतच्छ्रीश्च यश-
चेत्युपासीत श्रीमान्यशस्वी भवति य
एवं वेद ॥ २ ॥
अथ योऽस्य दक्षिण: सुषिः तत्स्थो वायुविशेषः स
वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनि-
तीतिं व्यान: । तत्संबद्धमेव च तच्छ्रोत्रमिन्द्रियम् । तथा स
चन्द्रमाः -श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः । सहा-
-
श्रयौ पूर्ववत् ; तदेतत् श्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहे-