Proofing

This page has not been fully proofread.

त्रयोदशः खण्डः ॥
 
तस्य ह वा एतस्य हृदयस्य पञ्च देव-
सुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्च-
क्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपा-
सीत तेजस्व्यन्नादो भवति य एवं वेद ।
 
तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण: उपास-
नाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते । यथा लोके
द्वारपाला: राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति,
तथेहापीति । तस्य इति प्रकृतस्य हृदयस्येत्यर्थः । एतस्य
अनन्तरनिर्दिष्टस्य पञ्च पञ्चसंख्याकाः देवानां सुषय: देव-
सुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैः प्राणादित्यादिभिः
रक्ष्यमाणानि इत्यतो देवसुषय: ; तस्य स्वर्गलोकभवनस्य हृद-
यस्य अस्य यः प्राङ्सुषि: पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं
द्वारं स प्राण:; तत्स्थः तेन द्वारेण यः संचरति वायुविशेष:
स प्रागनितीति प्राणः । तेनैव संवद्धमव्यतिरिक्तं तच्चक्षुः ;
तथैव स आदित्य: 'आदित्यो ह वै बाह्यप्राण:' इति श्रुतेः
चक्षुरूपप्रतिष्ठाक्रमेण हृदि स्थितः ; 'स आदित्यः कस्मि-