Proofing

This page has not been fully proofread.

१६४
 
छान्दोग्योपनिषद्भाष्ये
 
-
 
[ख.
 
अयं वाव सः, योऽयमन्तर्हृदये हृदयपुण्डरीके आकाशः ।
कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते-वा-
ह्येन्द्रियविषये जागरितस्थाने नभसि दुःखवाहुल्यं दृश्यते ।
ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति । स्व-
मान्पश्यतो हृदयस्थे पुनर्नभसि न कंचन कामं कामयते न
कंचन स्वप्नं पश्यति । अतः सर्वदुःखनिवृत्तिरूपमाकाशं सु-
षुप्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् ।
बहिर्धा पुरुषादारभ्य आकाशस्य हृदये संकोचकरणं चेत:-
समाधानस्थानस्तुतये —— यथा 'त्रयाणामपि लोकानां कुरुक्षेत्रं
विशिष्यते । अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्' इति,
तद्वत् । तदेतद्धार्दाकाशाख्यं त्रह्म पूर्ण सर्वगतम्, न हृदय-
मात्र परिच्छिन्नमिति मन्तव्यम्, यद्यपि हृदयाकाशे चेतः
समाधीयते । अप्रवर्ति न कुतश्चित्कचित्प्रवर्तितुं शीलमस्येत्य-
प्रवर्ति, तदनुच्छित्तिधर्मकम् । यथा अन्यानि भूतानि परि-
च्छिन्नान्युच्छित्तिधर्मकाणि, न तथा हार्द नभः । पूर्णामप्रवर्ति-
नीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम् । य
एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानाति इहैव जीवन्
तद्भावं प्रतिपद्यत इत्यर्थः ॥
 
इति द्वादशखण्डभाष्यम् ॥