2026-05-06 05:53:15 by ambuda-bot
This page has not been fully proofread.
१२.]
तृतीयोऽध्यायः ।
१६३
त्रिपात्; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो
दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादा-
काशः ॥ ७ ॥
यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव
तत् इदमेव तत् ; योऽयं प्रसिद्धः वहिर्धा बहिः पुरुषादाकाश:
भौतिको यो वै स बहिर्धा पुरुषादाकाश उक्तः ॥
"
अयं वाव स योऽयमन्तः पुरुष आका-
शो यो वै सोऽन्तः पुरुष आकाशः ॥ ८॥
अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः । यो
वै सोऽन्तः पुरुष आकाशः ॥
अयं वाव स योऽयमन्तर्हृदय आका -
शस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनी
श्रियं लभते य एवं वेद ॥ ९ ॥
इति द्वादशः खण्डः ॥