Proofing

This page has not been fully proofread.

१६२
 
छान्दोग्योपनिषद्भाष्ये
 
सैषा चतुष्पदा षड्विधा गायत्री तदे-
 
तदृचाभ्यनूक्तम् ॥ ५ ॥
 
[ख.
 
सैपा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गाय-
त्री षडिधा - वाग्भूतपृथिवीशरीर हृदयप्राणरूपा सती षडिधा
भवति । वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम्,
अन्यथा षड्विधसंख्यापूरणानुपपत्तेः । तत् एतस्मिन्नर्थे एतत्
गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचा
अपि मन्त्रेणाभ्यनूक्तं प्रकाशितम् ॥
 
तावानस्य महिमा ततो ज्यायाश्च
पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपाद -
स्यामृतं दिवीति ॥ ६ ॥
 
तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा
विभूतिविस्तारः, यावांश्चतुष्पात्षडिधश्च ब्रह्मणो विकारः
पादो गायतीति व्याख्यातः । अतः तस्माद्विकारलक्षणाद्गा-
यत्र्याख्याद्वाचारम्भणमात्रात् ततो ज्यायान् महत्तरश्च परमा-
र्थसत्यरूपोऽविकारः पूरुष: पुरुष: सर्वपूरणात् पुरि शय-
नाच्च । तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्ना-
दीनि सस्थावरजङ्गमानि त्रिपात् त्रयः पादा अस्य सोऽयं