Proofing

This page has not been fully proofread.

१२.]
 
तृतीयोऽध्यायः ।
 
१६१
 
या वै सा पृथिवीयं वाव सा यदिदम-
स्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रति-
ष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥
 
या वैसा पृथिवी गायत्री इयं वाव सा इदमेव ।
तत्किम् ? यदिदमस्मिन्पुरुषे कार्यकरणसंघाते जीवति शरी-
रम्, पार्थिवत्वाच्छरीरस्य । कथं शरीरस्य गायत्रीत्वमिति,
उच्यते—अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रति-
ष्ठिताः, अतः पृथिवीवद्भूतशब्दवाच्य प्राणप्रतिष्ठानात् शरीरं
गायली, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥
 
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदि-
दमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्रा-
णाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥४॥
 
यद्वै तत्पुरुषे शरीरं गायत्री इदं वाव तत् । यदिदम-
स्मिन्नन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद्गायत्री । कथ-
मिति, आह— अस्मिन्हि इमे प्राणाः प्रतिष्ठिताः, अत:
शरीरवत् गायत्री हृदयम् । एतदेव च नातिशीयन्ते प्राणाः ।
' प्राणो ह पिता । प्राणो माता' ' अहिंसन्सर्वभूतानि '
इति श्रुतेः भूतशब्दवाच्याः प्राणाः ॥