Proofing

This page has not been fully proofread.

१६०
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
तस्याश्छन्दोमालायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं
वाचं शब्दरूपामापाद्यति गायत्रीं वाग्वै गायत्रीति । वाग्वा
इदं सर्वे भूतम् । यस्मात् वाक् शब्दरूपा सती सर्व भूतं गा-
यति शब्दयति- असौ गौः असावश्व इति च,
त्रायते च
रक्षति - अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना
सर्वतो भयान्निवर्त्यमानः वाचा त्रातः स्यात् । यत् वाक् भूतं
गायति च त्रायते च, गायत्र्येव तत् गायति च त्रायते च,
अनन्यत्वाद्गायत्र्याः । गानान्त्राणाञ्च गायत्र्या गायत्रीत्वम् ॥
 
वाच:
 
या वै सा गायत्रीयं वाव सा येयं पृथि-
व्यस्था ही सर्व भूतं प्रतिष्ठितमेता-
मेव नातिशीयते ॥ २ ॥
 
या वै सा एवंलक्षणा सर्वभूतरूपा गायत्री, इयं बाव सा
येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते—
सर्वभूतसंबन्धात् । कथं सर्वभूतसंबन्ध:, अस्यां पृथिव्यां हि
यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम्, एतामेव पृथि-
वीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां
भूतसंबन्धो गायत्र्याः, एवं भूतप्रतिष्ठानाद्भूतसंबद्धा पृथिवी;
अतो गायत्री पृथिवी ॥