2026-05-06 05:53:13 by ambuda-bot
This page has not been fully proofread.
द्वादशः खण्डः ॥
यत एवमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रकारान्तरे-
णापि वक्तव्येति 'गायत्री वा' इत्याद्यारभ्यते । गायत्रीद्वा-
रेण च उच्यते ब्रह्म, सर्वविशेषरहितस्य ' नेति नेति' इत्या-
दिविशेषप्रतिषेधगम्यस्य दुर्योधत्वात् । सत्स्वनेकेषु च्छन्दः सु
गायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् । सोमाह-
रणान् इतरच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्त्या च सर्व-
सवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः । गायत्रीसार-
त्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततो-
ऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामत्यन्तगौ-
रवस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनैव ब्रह्मोच्यते-
गायत्री वा इदँ सर्व भूतं यदिदं
किंच वाग्वै गायत्री वाग्वा इद५ सर्व
भूतं गायति च त्रायते च ॥ १ ॥
गायत्री वा इत्यवधारणार्थो वै-शब्दः । इदं सर्व भूतं
प्राणिजातं यत्किंच स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव ।