Proofing

This page has not been fully proofread.

१५८
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
उवाच ; सोऽपि मनवे ; मनुरिक्ष्वाक्काद्याभ्यः प्रजाभ्यः
प्रोवाचेति विद्यां स्तौति — ब्रह्मादिविशिष्टक्रमागतेति । किं च,
तद्वैतत् मधुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविज्ञानं
ज्येष्ठाय पुत्राय प्रोवाच ॥
 
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्र-
ह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥
इदं वाव तद्यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियाहय
ब्रह्म प्रब्रूयात् । प्रणाय्याय वा योग्याय अन्तेवासिने शिष्याय ॥
. नान्यस्मै कस्मैचन यद्यप्यस्मा इमाम-
द्भिः परिगृहीतां धनस्य पूर्णा दद्यादेतदेव
ततो भूय इत्येतदेव ततो भूय इति ॥६॥
नान्यस्मै कस्मैचन प्रब्रूयात् । तीर्थद्वयमनुज्ञातमनेकेषां प्रा-
प्तानां तीर्थानामाचार्यादीनाम् । कस्मात्पुनस्तीर्थ संकोचनं वि-
द्यायाः कृतमिति, आह— यद्यपि अस्मै आचार्याय इमां क-
श्चित्पृथिवीम् अद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि
दद्यात्, अस्या विद्याया निष्क्रयार्थम्, आचार्याय धनस्य पूर्णां
संपन्नां भोगोपकरणैः; नासावस्य निष्क्रयः यस्मात् ततोऽपि
दानात् एतदेव यन्मधुं विद्यादानं भूयः बहुतरफलमित्यर्थः ।
द्विरभ्यास: आदरार्थः ॥
 
इति एकादशखण्डभाष्यम् ॥