2026-05-06 05:53:13 by ambuda-bot
This page has not been fully proofread.
११.]
तृतीयोऽध्यायः ।
१५७
उदियाय उद्गतः कुतश्चित् कदाचन कस्मिंश्चिदपि काले इति ।
उदयास्तमयवर्जित: ब्रह्मलोकः इत्यनुपपन्नम् इत्युक्तः शपथ-
मिव प्रतिपेदे – हे देवा: साक्षिणो यूयं शृणुत, यथा मयोक्तं
सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विरा-
धिषि मा विरुध्येयम्, अप्राप्तिर्ब्रह्मणो मम मा भूदित्यर्थः ॥
सत्यं तेनोक्तमित्याह श्रुति:-
न ह वा अस्मा उदेति न निम्लोचति
सकृद्दिवा हैवास्मै भवति य एतामेवं ब्र-
ह्मोपनिषदं वेद ॥ ३ ॥
न हवा अस्मै यथोक्तब्रह्मविदे न उदेति न निम्लोच-
ति नास्तमेति, किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैव अह-
र्भवति, स्वयंज्योतिष्ट्वात्; य एतां यथोक्तां ब्रह्मोपनिषदं वेद-
गुह्यं वेद, एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसंबन्धं च यच्च
अन्यदवोचाम एवं जानातीत्यर्थः । विद्वान् उदयास्तमयकाला-
परिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥
तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजाप-
तिर्मनवे मनुः प्रजाभ्यस्तद्वैतदुद्दालकाया-
रुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥
तद्वैतत् मधुज्ञानं ब्रह्मा हिरण्यगर्भः विराजे प्रजापतये
S. U. III. 21