Proofing

This page has not been fully proofread.

एकादशः खण्डः ॥
 
अथ तत ऊर्ध्व उदैत्य नैवोदेता नास्त-
मेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥
 
कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनु-
ग्रहम्, तत्कर्मफलभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्य,
अथ ततः तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन् आत्मन्यु-
देत्य उद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात् स्वात्मस्थः
नैवोदेता नास्तमेता एकल: अद्वितीयः अनवयवः मध्ये स्वा-
त्मन्येव स्थाता । तत्र कश्चिद्विद्वान्वस्वादिसमानचरण: रोहि-
ताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वे-
नोपेत्य समाहितः सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्ठ-
वते जगाद—यतस्त्वमागतो ब्रह्मलोकात् किं तत्राप्यहोरात्रा-
भ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्मा-
कम्; इत्येवं पृष्टः प्रत्याह — तत् तत्र यथा पृष्ठे यथोक्ते च अर्थे
एष श्लोको भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥
 
न वै तत्र न निम्लोच नोदियाय
कदाचन । देवास्तेनाहँ सत्येन मा विरा-
धिषि ब्रह्मणेति ॥ २ ॥
 
न वै तत्र यतोऽहं ब्रह्मलोकादागतः तस्मिन्न वै तत्र एतदस्ति
 
यत्पृच्छसि । न हि तत्र निम्लोच अस्तमगमत्सविता न च