Proofing

This page has not been fully proofread.

दशमः खण्डः ॥
 
अथ यत्पञ्चमममृतं तत्साध्या उपजी-
वन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति
न पिवन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्मा-
द्रूपादुद्यन्ति ॥ २ ॥
 
स य एतदेवममृतं वेद साध्यानामेवै-
को भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा
तृप्यति स एतदेव रूपमभिसंविशत्येत-
स्माद्रूपादुदेति ॥ ३ ॥
 
स यावदादित्य उत्तरत उदेता दक्षि
णतोऽस्तमेता द्विस्तावदूर्ध्व उदेतार्वा -
गस्तमेता साध्यानामेव तावदाधिपत्य‍
स्वाराज्यं पर्येता ॥ ४ ॥
 
इति दशमः खण्डः ॥