2026-05-06 05:53:12 by ambuda-bot
This page has not been fully proofread.
नवमः खण्डः ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीव-
न्ति सोमेन मुखेन न वै देवा अनन्ति
न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्मा-
द्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद मरुतामेवैको
भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा
तृप्यति स एतदेव रूपमभिसंविशत्येत-
स्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्यः पश्चादुदेता पुरस्ताद-
स्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतो-
ऽस्तमेता मरुतामेव तावदाधिपत्य स्वा-
राज्यं पर्येता ॥ ४॥
इति नवमः खण्डः ।
अथ यच्चतुर्थममृतं तन्मरुत उपजीव-
न्ति सोमेन मुखेन न वै देवा अनन्ति
न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्मा-
द्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद मरुतामेवैको
भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा
तृप्यति स एतदेव रूपमभिसंविशत्येत-
स्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्यः पश्चादुदेता पुरस्ताद-
स्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतो-
ऽस्तमेता मरुतामेव तावदाधिपत्य स्वा-
राज्यं पर्येता ॥ ४॥
इति नवमः खण्डः ।