Proofing

This page has not been fully proofread.

८.]
 
तृतीयोऽध्यायः ।
 

 
१५३
 
प्रदक्षिणावृत्तेस्तुल्यत्वादिति । अत्रोक्तः परिहारः आचार्यैः ।
अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वास:
स्यात् । उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुर्गो-
चरापत्तिः, तदत्ययश्च अस्तमनम् ; न परमार्थत उदयास्तमने
स्त: । तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण
गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षुर्गोचरापत्तेस्तदत्ययस्य च
अभावात् । तथा अमरावत्याः सकाशाद्दिगुणं कालं संयमनी
पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव
उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्बुद्धिं च अपेक्ष्य । तथो-
त्तरास्वपि पुरीषु योजना । सर्वेषां च मेरुरुत्तरतो भवति ।
यदा अमरावत्यां मध्याह्नगतः सविता, तदा संयमन्यामुद्य-
न्दृश्यते ; तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते; तथोत्तर-
स्याम्, प्रदक्षिणावृत्तेस्तुल्यत्वात् । इलावृतवासिनां सर्वतः
पर्वतप्राकारनिवारितादित्यरश्मीनां सविता ऊर्ध्व इव उदेता
अर्वागस्तमेता दृश्यते, पर्वतोर्ध्वच्छिद्र प्रवेशात्सवितृप्रकाशस्य ।
तथा ऋगाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवी-
र्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन । उद्यमनसंवेश-
नादि देवानां रुद्रादीनां विदुषश्च समानम् ॥
 
इति अष्टमखण्डभाष्यम् ॥