Proofing

This page has not been fully proofread.

अष्टमः खण्डः ॥
 
अथ यत्तृतीयममृतं तदादित्या उपजी-
वन्ति वरुणेन मुखेन न वै देवा अश्नन्ति
न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रू-
पादुद्यन्ति ॥ २ ॥
 
.
 
स य एतदेवममृतं वेदादित्यानामेवै-
को भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृ-
ष्ट्वा तृप्यति स एतदेव रूपमभिसंविश-
त्येतस्माद्रूपादुदेति ॥ ३॥
 
स यावदादित्यो दक्षिणत उदेतोत्तर-
तोऽस्तमेता द्विस्तावत्पश्चादुदेता पुर-
स्तादस्तमेतादित्यानामेव तावदाधिपत्य
स्वाराज्यं पर्येता ॥ ४ ॥
 
इति अष्टमः खण्डः ॥
 
तथा पश्चात् उत्तरतः ऊर्ध्वमुदेता विपर्ययेण अस्तमेता ।
पूर्वस्मात्पूर्वस्माद्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् ।
सवितुः चतुर्दिशमिन्द्रयमवरुणसोमपुरीषु उदयास्तमयकालस्य
तुल्यत्वं हि पौराणिकैरुक्तम्, मानसोत्तरस्य मूर्धनि मेरो:
 
.