Proofing

This page has not been fully proofread.

सप्तमः खण्डः ॥
 
अथ यद्वितीयममृतं तद्रुद्रा उपजीव-
न्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न
पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्-
पादुद्यन्ति ॥ २ ॥
 
स य एतदेवममृतं वेद रुद्राणामेवैको
भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति
स एतदेव रूपमभिसंविशत्येतस्माद्रूपा-
दुदेति ॥ ३ ॥
 
अथ यद्दितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥
स यावदादित्यः पुरस्तादुदेता पश्चाद-
स्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतो-
Sस्तमेता रुद्राणामेव तावदाधिपत्य‍ स्खा-
राज्यं पर्येता ॥ ४ ॥
 
इति सप्तमः खण्डः ॥
 
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्
ततो द्विगुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां
तावद्भोगकालः ॥
 
इति सप्तमखण्डभाष्यम् ॥