2026-05-06 05:53:10 by ambuda-bot
This page has not been fully proofread.
१५०
छान्दोग्योपनिषद्धाप्ये
[ख.
मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं
तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानु-
भवति ॥
स यावदादित्यः पुरस्तादुदेता पश्चाद-
स्तमेता वसूनामेव तावदाधिपत्य स्वा-
राज्यं पर्येता ॥ ४॥
इति षष्ठः खण्डः ॥
कियन्तं कालं विद्वांस्तदमृतमुपजीवतीति, उच्यते - स
विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात्
प्रतीच्याम् अस्तमेता, तावद्वसूनां भोगकालः तावन्तमेव कालं
वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः ।
न यथा चन्द्रमण्डलस्थ: केवलकर्मी परतन्त्रो देवानामन्नभूतः ;
किं तर्हि, अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अधि-
गच्छति ॥
इति षष्ठखण्डभाष्यम् ॥