2026-05-06 05:53:10 by ambuda-bot
This page has not been fully proofread.
६.]
तृतीयोऽध्यायः ।
१४९
देवा दृष्ट्वा तृप्यन्तीति एतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः ।
आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥
त एतदेव रूपमभिसंविशन्त्येतस्मा-
द्रूपादुद्यन्ति ॥ २ ॥
किं ते निरुद्यमा अमृतमुपजीवन्ति ? न; कथं तर्हि,
एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माक-
मिति बुढ्ढा अभिसंविशन्ति उदासते । यदा वै तस्यामृतस्य
भोगावसरो भवेत्, तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः ;
एतस्माद्रूपात् उयन्ति उत्साहवन्तो भवन्तीत्यर्थः । नहि
अनुत्साहवतामननुतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा ॥
स य एतदेवममृतं वेद वसूनामेवैको
भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्य-
ति स एतदेव रूपमभिसंविशत्येतस्माद्रू-
पादुदेति ॥ ३ ॥
स यः कश्चित् एतदेवं यथोदितम् ऋङ्मधुकरता परससं-
क्षरणम् ऋग्वेदविहितकर्मपुष्पात् तस्य च आदित्यसंश्रयणं
रोहितरूपत्वं च अमृतम्य प्राचीदिग्गतरश्मिनाडीसंस्थतां
वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वा अग्निना