Proofing

This page has not been fully proofread.

षष्ठः खण्डः ॥
 
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्य-
ग्निना मुखेन न वै देवा अश्नन्ति न पिब-
न्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
 
तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रात:-
सवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन,
अग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः । ' अन्नाद्यं रसोऽजायत'
इति वचनात् कवलग्राहमनन्तीति प्राप्तम्, तत्प्रतिषिध्यते—
न वै देवा अनन्ति न पिबन्तीति । कथं तर्हि उपजीवन्तीति,
उच्यते — एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उप-
लभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्वकरणद्वारोपल-
न्रध्यर्थत्वात् । ननु रोहितं रूपं दृष्ट्वेत्युक्तम्; कथमन्येन्द्रिय-
विषयत्वं रूपस्येति ; न, यशआदीनां श्रोत्रादिगम्यत्वात् ।
श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुपम् । इन्द्रियं विषयग्रह-
णकार्यानुमेयं करणसामर्थ्यम् । वीर्ये वलं देहगत उत्साहः
प्राणवत्ता । अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं
यद्भवति । रसो ह्येवमात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे