2026-05-06 05:53:09 by ambuda-bot
This page has not been fully proofread.
५.]
तृतीयोऽध्यायः ।
१४७
रसास्तेषामेते रसास्तानि वा एतान्यमृ-
तानाममृतानि वेदा ह्यमृतास्तेषामेतान्य-
मृतानि ॥ ४ ॥
इति पञ्चमः खण्डः ॥
ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः ।
केषां रसानामिति, आह- वेदा हि यस्माल्लोक निष्यन्दत्वा-
त्सारा इति रसा:, तेषां रसानां कर्मभावमापन्नानामप्येते रो-
हितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः । तथा अमृताना-
ममृतानि वेदा मृताः, नित्यत्वात् तेषामेतानि रोहितादीनि
रूपाण्यमृतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा — यस्यै-
वंविशिष्टान्यमृतानि फलमिति ॥
इति पञ्चमखण्डभाष्यम् ॥