Proofing

This page has not been fully proofread.

पञ्चमः खण्डः ॥
 
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्यो-
र्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो
ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥
 
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्य-
तपस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्य रसोऽजायत ॥ २ ॥
 
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए-
तद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥
 
अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् । गुह्या गोप्या
रहस्या एव आदेशा लोकद्वारीयादिविधय उपासनानि च
कर्माङ्गविषयाणि मधुकृतः, ब्रह्मैव शब्दाधिकारात्प्रणवाख्यं
पुष्पम् । समानमन्यत् । मधु एतत् आदित्यस्य मध्ये क्षोभत
इव समाहितदृष्टेर्दृश्यते संचलतीव ।
 
ते वा एते रसाना रसा वेदा हि