2026-05-06 05:53:08 by ambuda-bot
This page has not been fully proofread.
चतुर्थः खण्डः ॥
अथ येऽस्योदञ्चो रश्मयस्ता एवास्यो-
दीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृ-
त इतिहासपुराणं पुष्पं ता अमृता आपः ॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहास-
'पुराणमभ्यतपः स्तस्याभितप्तस्य यशस्ते-
ज इन्द्रियं वीर्यमन्नाद्य ५ रसोऽजायत ॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए-
तद्यदेतदादित्यस्य परं कृष्ण रूपम् ॥३॥
इति चतुर्थः खण्डः ॥
अथ येऽस्योदश्च रश्मय इत्यादि समानम् । अथर्वा -
ङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः,
कर्मणि प्रयुक्ता मधुकृतः । इतिहासपुराणं पुष्पम् । तयोश्चे-
तिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनि-
योगः सिद्धः । मधु एतदादित्यस्य परं कृष्णं रूपम् अतिशयेन
कृष्णमित्यर्थः ॥
इति चतुर्थखण्डभाष्यम् ॥